________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दण्डविवेकः ।
अत्र पारिजातः,आक्रश्य मध्यमेन पारुष्येणेति शेष इत्याह । अध्यर्द्धशतं साईशतं हे वेत्याक्षेपगौरवापेक्षया व्यवस्था । वधस्ताडनादिरूप इति कुल्लूकभट्टः। ताडनं जिह्वाच्छेद्यात्मकमिति रत्नाकरः।
इदमत्र चिन्त्यं वाक्यस्यास्य मध्यपारुष्यविषयत्वेनान्तरोक्तं वैश्यमित्यादि बृहस्पतिवचनं प्रथमपारुष्यविषयं प्राप्तं दण्डलाघवदर्शनात्। तथाच शूद्रस्योत्तमे पारुष्ये को नाम दण्डोऽस्तु न तावज्जिह्वाच्छेद एव मध्यमेनावरोधात् । नान्यः- अनभिधानादिति।
अत्र उत्तमे ब्राह्मणाक्षेपे जिह्वाच्छेदो द्रष्टव्य औचित्यात्, अन्ताभिशंसने तदङ्गच्छेद इति हारौतवाक्ये रत्नाकरतैव तौवाकोशे जिह्वाच्छेदव्याख्यानाच्चेति । अब मनुनारदौ,
एकजातिद्विजातिन्तु वाचा दारुणया क्षिपन् । जिह्वायाः प्राप्नुयानेदं जघन्यप्रभवो हि सः ॥ नामजातिग्रहं त्वेषामभिद्रोहेण कुर्चतः। विधेयोऽयमयः शङ्खर्चलन्नास्ये दशाङ्गुलः ॥ एकजातिरिह शूद्र उपनयनाभावात् दारुणया मर्मस्पृश पातित्यादिबोधिकया, जघन्यप्रभवः श्रुतौ पझ्यामुत्पन्नत्वेन बोधितत्वात्।
१ मूले च्छेदम् ।
२ ख पुस्तके निक्षेप्योऽयोमयः ।
For Private And Personal Use Only