________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०५
ब्राह्मणादीनां परस्पराक्षेपे। अथ ब्राह्मणादौनामेकतमेनान्यतमाक्षेपे दण्डः । तब ब्राह्मणस्य तमाह बृहस्पतिः,विप्रे शताई दण्डस्तु क्षत्रियस्याभिशंसने । वैश्यस्य चाईपञ्चाशच्छूद्रस्याईत्रयोदश ॥ सच्छद्रस्यायमुदितो विनयोऽनपराधिनः ।
गुणहीनस्य पारुष्ये ब्राह्मणो नापराभूयात् ॥ विप्रे आक्षेप्तरीति शेषः। अभिशंसनमाक्रोशः । क्षत्रियस्य दण्डमाहतुः शङ्खलिखितौ
आक्रोशे ब्राह्मणस्य क्षत्रियस्य शतं दण्डः शताई वैश्यस्य पञ्चविंशतिः शूद्रस्य । वैश्यस्य दण्डमाह बृहस्पतिः
वैश्यस्त क्षत्रियाक्षेपे दण्डनीयः शतं भवेत् । शूद्राक्षेपे क्षत्रियस्य पञ्चविंशतिको दमः ॥
वैश्यस्य चैतद्दिगुणं शास्त्रविद्भिरुदाहृतम्। तथा ब्राह्मणाक्षेपे मनुर्वक्ष्यति । शूद्रस्य दण्डमाह बृहस्पतिरेव ।
वैश्यमाक्षारयन् शूद्रो दाप्यः स्यात् प्रथमं दमम् ।
क्षत्रियं मध्यमञ्चैव विप्रमुत्तमसाहसम् ॥ प्रथमं पणानां साईशतदयं मध्यमं पञ्चशतानि उत्तमं साहसमिति रत्नाकरः। अवैव मनुः,शतं ब्राह्मणमाक्रुश्य क्षत्रियो दण्डमर्हति । वैश्योऽध्यईशतं 'त्वेव शूद्रस्तु वधमर्हति॥
१ क्वचित् वैश्योऽप्यर्द्धशतं त्वेव ।
For Private And Personal Use Only