________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०४
दण्डविवेकः ।
अतस्तस्यैव दण्डाभावो वैश्यक्षत्रिययोस्तु स्वाम्यतारतम्यानुसारौ दण्डलेशोऽस्त्येवेति तात्पर्य्यार्थो गम्यते ।
स चायं दण्डाभावो निर्गुणशूद्रपरत्वेन व्यवतिष्ठते। गुणहीनस्येत्यादिवक्ष्यमाणबृहस्पतिवचनसम्बादात्। अन्यत्र सर्वत्र दण्डोपदेशात् ब्राह्मणपदञ्च न कृषौबलादिसाधारणजातिमात्रपरमपि तु गुणवदभिप्रायम्। तस्यैवेशानसामर्थ्यात्। तदेवं न वेति विकल्पस्य विषयव्यवस्थायामष्टदोषदुष्टत्वमप्यपास्तं' भवतौति चतुरसम्। मनुनारदौ,समवर्णे दिजातीनां हादशैव व्यतिक्रमे ।
वादेष्ववचनौयेषु तदेव द्विगुणं भवेत् ॥ अत्र द्विजातित्वमतन्त्रमिति रत्नाकरः। व्यतिक्रमो वाक्पारुष्यम्, अवचनीयो वादोऽप्रकाश्यप्रकाशकं वचनम्।
अवचनौयेषु त्वं स्वमृगामौत्यादिषु आक्रोशमात्रतात्पर्येणोक्तेष्ठिति नारायणः । कात्यायनोशनसौ,मोहात् प्रमादात् संहर्षात् प्रौत्या चोक्तं मयेति यः।
आह नैवं पुनर्वक्ष्ये दण्डाई तस्य कल्पयेत् ॥ एतत् परिहार्यवाक्पारुष्याभिप्रायमिति रत्नाकरः ।
१ ग अस्तं ।
२ घ पुस्तके वादेषु वचनो येषु । ३ मूले पाठः--नाहमेवं ।
For Private And Personal Use Only