________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२.८
दण्डविवेकः।
अनन्तरोक्तनानावचनसम्बादात्। वधस्तु जिह्वाच्छेदादिरिति विशेषः । अत एव समानजातिविषयमिदं वचनमिति कुल्लूकभट्टोक्तमपि घटते।
अथ तेषु तेषु पारुष्यविशेषे दण्डविशेषाः। तत्र व्यासः,पापोपपापवक्तारो महापातकशंसकाः ।
आद्यमध्योत्तमान् दण्डान् दद्युस्ते ते यथाक्रमम् ॥ अच महापातकं प्रसिद्धं ततो न्यूनमुपपातकं ततोऽपि न्यूनं पापं ततो न्यूने पापेऽधमदण्डः। उपपापे मध्यमो महापातके तूत्तमः। याज्ञवल्क्यः ,पतनीयकृताक्षेपे दण्ड्यो मध्यमसाहसम् ।
उपपातकयुक्ते तु दाप्यः प्रथमसाहसम् ॥ पतनौयकृताक्षेपे पातित्यहेतुभिर्ब्रह्महत्यादिभिः कृताक्षेपे । इदं गुणवत्कृष्टाक्षेपकविषयमिति प्रतिभाति। विष्णुः,
परस्य पतनौयाक्षेपे कृते उत्तमसाहसं उपपातकयुक्त मध्यमं विद्यड्वानां क्षेपे जातिपूगानाञ्च ग्रामदेशयोः प्रथमम्।
विद्यवानामित्यत्रोत्तमसाहसमित्यनुषङ्गः। जातिपूगानामित्यत्र मध्यममित्यनुषङ्गः ।
१ क्वचित् पाठः पतनीयकृते क्षेपे दण्डो मध्यमसाहसः ।
For Private And Personal Use Only