________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ब्राह्मणादीनां परस्पराक्षेपे ।
२०१
तच उत्तराधरेति विशेषोपादानात् याहगुत्तराधरभाव स्तदपेक्षयैव कार्य्यम् ।
प्रातिलोम्येति यदा वर्णेषु ब्राह्मणक्षचियवैश्येषु प्रातिलोम्येनापवादोऽधिक्षेपो भवति तदा क्षचियेण ब्राह्मणापवादे द्विगुणः । वैश्येन तदाक्षेपे त्रिगुणः । यदा तु ब्राह्मणेन क्षत्रियाक्षेपस्तदा पूर्वोक्तादर्द्धदण्डः क्षत्रियेण वैश्याक्षेपे तदर्द्धमित्यर्थः ।
मनुः,
ब्राह्मण-क्षत्रियाभ्यान्तु दण्डः कार्य्यो विजानता । ब्राह्मणे साहसः पूर्व्वः क्षत्रियेष्वेव मध्यमः ॥ विट् - शुद्रयोवेवमेव स्वजातिं प्रति तत्त्वतः । छेदवज्र्जं प्रणयनं दण्डस्येति विनिश्चयः ॥
ब्राह्मणक्षचियाभ्यां परस्परमाक्रोशे कृते ब्राह्मणस्य पूर्व्वसाहसेो दण्डः क्षत्रियस्य मध्यसाहसो दण्डः । वैश्य - श्रद्रयोरप्येवमेव स्वजातिं तुल्यजातिं प्रति तत्त्वतः स्वरूपगुणोत्कर्षापकर्षतारतम्याद्दण्डव्यवस्था । तत्रापि छेदवमिति जिह्वाछेद निवृत्त्यर्थम् ।
अतः कुल्लूकभट्टः,
पतनौयाक्रोशविषयमिदं वचनद्वयं एवच्चैकजातिमित्यनेनोक्ते जिह्वाछेदे वैश्यनिषेधात् ब्राह्मणक्षत्रियविषयतया व्यवतिष्ठते इत्याह ।
१ ख पुस्तके चिह्नितांश पतितः ।
For Private And Personal Use Only