________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
अथ ब्राह्मणादीनां परस्पराक्षेपे दण्डः ।
तच बृहस्पतिः -
समानयोः समो दण्डो न्यूनस्य द्विगुणः स्मृतः । उत्तमस्याधिको दण्डो वाक्पारुष्ये परस्परम् ॥ समो यथाश्रुतो न्यूनस्या क्षेप्यापेक्षया शौलजात्यादिभिरपकृष्टस्याक्षेप्तुरित्यर्थः ।
याज्ञवल्क्यः,
मेषु द्विगुणः परस्त्रीषूत्तमेषु च । दण्डप्रणयनं कार्य्यं वर्णजात्युत्तराधरैः ॥ 'प्रातिलोम्यापवादेषु द्विगुणचिगुणा दमाः । वर्णानामानुलोम्ये तु तस्मादर्द्धार्द्धहानिः ॥
अधमेषु वर्णतो गुणतश्च न्यूनेष्ठाक्षेप्येषु क्षेप्तुरधिकस्यार्डो दण्डः स च त्रयोदशपणरूपः । पूर्व्ववाक्ये पञ्चविंशतिदमस्य प्रकृतत्वात् परस्त्रीषु परभार्य्यासु उत्कृष्टासु प्रकृष्टासु च विशेषानाभिधानात् । द्विगुणः पञ्चाशत्पणात्मकः एवमुत्तमेऽपि दण्डप्रणयनमिति ।
-
वर्णी ब्राह्मणादयो जातयोऽनुलोमजा अम्बष्ठादयः । वर्णीश्च जातयश्चेति वर्णजातयः वर्णजातयश्च ते उत्तराधराश्च वर्णजात्युत्तराधरास्तैः परस्परमाक्षेपे क्रियमाणे दण्डस्य प्रणयनं प्रकर्षेण नयनमूहनं कार्य्यम्,
पुस्तके प्रतिलोमापवादेषु ।
२ विलोमजाः ।
For Private And Personal Use Only