________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२०२
Acharya Shri Kailassagarsuri Gyanmandir
दगड विवेकः ।
एवचैतन्मते छेदवर्ज्जमित्यस्यान्वयो विट्शूद्रयोरेवमेवे
त्यचैव द्रष्टव्यः । नारायणोऽप्याह
तयोः स्वस्वजात्याक्षारणे छेदवज्र्जं तत्तज्जात्युचितं दण्डमाचप्रणयनं तेनार्थात् ब्राह्मणक्षत्रियाक्षारणे छेद इत्यर्थ इति ।
अधमवर्णस्योत्तमवर्णानामाक्रोशा क्षेपाभिभवे अष्टौ पुराणा इत्युपक्रम्य हारौतः, -
अन्टाभिशंसने पादताडने तदङ्गछेदः पञ्चशतत्वाद्येषु पादो न वा किञ्चित् स्वामित्वादादिवर्णत्वाच्च । उत्तमानामीशानतमो हि ब्राह्मणः ।
पुराणशब्दोऽच द्वाविंशद्राजतकृष्णलपर इति रत्नाकरः । अन्नृताभिशंसनमाक्रोशः । श्रङ्गमच जिह्वा अपकृष्टवर्णेषु उकृष्टवर्ण प्रति मिथ्यातौवाक्रोशे जिह्वाछेदः पञ्चशतं वा दण्डः ।
हीनवर्णस्य दण्डमुक्काऽधिकतमस्याह — आद्येष्वित्यादि श्रद्येषु उत्कृष्टेषु निकृष्टं प्रति मिथ्यातौव्राक्रोशे पञ्चशतपादः ।
मतान्तरमाह न वेति,— आदिवर्णत्वात् क्षुद्रापेक्षया ब्राह्मणादीनां प्रथमवर्णत्वात् ।
तदेतद्यथा रत्नाकरे व्याख्यातम् ।
वस्तुतस्तु, अभिशंसनमेव आक्रोशः । तस्मिन् असत्यार्थेऽतितौत्रे जिह्वाच्छेदोऽन्यत्र पञ्चशतपुराणो दण्डः ।
For Private And Personal Use Only