________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६०
दण्डविवेकः ।
ननु वेश्यायाः साधारण्यं न जातितः, अनुलोमजत्वेन तस्याः सवर्णस्त्रौत्वात् । प्रतिलोमजत्वे तु निन्दितकाभ्यासेन तस्या गम्यत्वानुपपत्तेरिति चेत् ।
उच्यतेपुरुषसम्मोगत्तिवेश्यानामनादिरेव जातिर्लोकप्रसिद्धेः, पञ्चचूडानामका'श्चाप्सरसस्तत्सन्ततिर्वेश्याख्या पञ्चमी जातिरिति मार्कण्डेयपुराणसम्बादाच्च ।
तस्मादासां नियतपुरुषपरिणयनविधिविधुरतया परपुरुषाभिगमनेऽपि नादृष्टदोषो नापि दण्डः।
पुरुषाणन्तु तदभिगमने दण्डाभावमात्रं न पापाभावः। स्वदारनिरतः सदेति नियमात् पशुवेश्याभिगमने प्रायश्चित्तं विधीयते इति प्रायश्चित्तस्मरणाच्चेति मिताक्षराकारः। तथा
प्रसह्य दास्यागमने पञ्चाशत्पणिको दमः । बहूनां यद्यकामाऽसौ चतुर्विंशतिकः पृथक् ।
प्रसह्य वेश्यागमने दण्डो दशपणः स्मृतः॥ बहूनामिति यद्यकामा सा बहूभिर्भुज्यते तदा पृथक पृथक् चतुर्विंशतिपणो दण्ड इत्यर्थः । नारदः,वेश्यागामी हिजो दण्ड्यो वेश्या शुल्कसमं दमः।
१ ख वर्ग स्त्रौत्वात् ।
२ ख काश्चन। ३ ख पुस्तके प्रसो यादि पतिर्नास्ति ।
For Private And Personal Use Only