________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बन्धक्याद्यभिगमे दण्डः ।
१८८ युक्तञ्चैतत् सर्वेषां स्वदारनियम इति शङ्खलिखितस्वरसात् विध्यतिक्रमे पापस्यावश्यकत्वात् ।
यत्तु- दण्डेनापि पापं गच्छतौति प्रामुक्तं तदभिगमभिन्नविषयम् । अत एवाह नारदः,
अगम्यागामिनः शास्तिर्दण्डो राज्ञा प्रकीर्तितः। प्रायश्चित्तविधानन्तु पापानां स्यादिशोधनम् ॥ इति रहस्यकृतेऽगम्यागमने दण्डाभावादिदं प्रायश्चित्तविधानमिति चेत् । तथापि प्रकृते पापं ध्रुवम्।
वस्तुतस्तु अन्यत्रापि प्रायश्चित्तरूपादेव दण्डात् पापनिवृत्तिन्तु दण्डमात्रादिति प्रागुक्तम् । भुजिष्यासु स्वैरिण्यादिषु परेणावरोध्य भुज्यमानासु।।
सपरिग्रहाः परेणावरुद्धत्वात् । परदारवदिति सामान्योक्तेः । दण्डे विशेषमाह याज्ञवल्क्यः,
अवरुद्वासु दासौषु भुजिष्यासु तथैव च । गम्यास्वपि पुमान् दाप्यः पञ्चाशत्पणिकं दमम् ॥ अवरुद्धासु दासौषु परेणावरुध्य धृता दास्यस्तासु अनुलामास्वपौत्यर्थः । इति रत्नाकरः ।
मिताक्षरायान्तु शुश्रूषाहानिव्युदासाथ गृह एव त्वया स्थातव्यमित्येवं परपुरुषसम्भोगतो निरुवा दास्योऽवरुद्धाः। नियतपुरुषपरिग्रहा भुजिष्याः। च शब्दाद्देश्या-स्वैरिणीनां गम्यानां साधारणस्त्रीणां ग्रहणमित्युक्तम् ।
For Private And Personal Use Only