________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अथ बन्धक्याद्यभिगमे दण्डः'। व्यासः,
बहुभिर्भुक्तपूर्वा या गच्छेद्यस्ता नराधमः ।
तस्य वेश्यावदिच्छन्ति दण्डनं न तु दारवत् ॥ बन्धक्यधिकारे यमः,
परदारे सवर्णासु दाप्याः स्यः पञ्चकृष्णलान् ।
असवर्णास्वानुलोम्ये दण्डो हादशको मतः ॥ परदारे परदारगमने एकवचनस्वरसात्, कृष्णलो यवत्रयं दादशको हादशपणात्मकः । नारदः, -
स्वैरिण्यब्राह्मणौ वेश्या दासी निष्कासिनौ च या। गम्याः स्युरानुलोम्येन स्त्रियो न प्रतिलोमतः ॥ आस्वेव तु भुजिष्यासु दोषः स्यात् परदारवत् । गम्या अपि हि नोपेया यतस्ताः सपरिग्रहाः ॥ स्वैरिणौस्वरसात् पुंश्चलौ तस्या विशेषणमब्राह्मणौ क्षत्रियादिरिति यावत्। दासी स्वीया कर्मकरी निष्कासिनौ कुटुम्बनिर्गता पुंश्चलौ। आस्वनवरुद्धास्वपौति मिताक्षराकारः। गम्या इत्यनेन दण्डमाचं निषिध्यते न तु पापमपौति रत्नाकरः।
२ घ दण्डमाः।
१ ख अभिगमदण्डः ।
३ ख निकृता।
For Private And Personal Use Only