________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
च्यन्त्याभिगमनदण्डः ।
१७६
युक्तचैतत् क्षत्रियागमने दण्डान्तरोपदेशात् । सगोचे - त्यनेन प्राप्तायाः सपत्नीमाचादेः पुनरुपादानं शिश्रछेदादधिकस्य वधदण्ड — ताडनादेः प्राप्त्यर्थम् ।
नान्यो दण्डो विधौयते इति तु निछेदस्यावश्यकर्त्तव्यत्वपरं शिश्रछेदं विहाय दण्डान्तरं न कार्य्यमिति वाक्यार्थपर्य्यवसानादिति प्रतिभाति ।
तथा स्त्रीणां प्रव्रज्यानिषेधात् प्रब्रजिता श्रुतिस्मृतिविहितयथावद्विधवाधर्म्मवतौ विरक्ततया सन्यासितुल्याचारा विवक्षिता, राज्ञौसमभिव्याहारेण पूज्यतमत्वावगमात् ।
यत्तु,
चत्वारिंशत्पणो दण्डस्तथा प्रव्रजितागमे ।
----
इति याज्ञवल्क्येनोक्तम् ।
तत्र प्रवजिता शाक्यादिस्त्रौ विवक्षिता दास्यादिसमभिव्याहारेण हौनात्वप्रतिपत्तेरिति न दण्डविरोधः । वर्णोत्तमा ब्राह्मणीति मिताक्षराकारः । तदिदं वचनं गुप्ताविषयमिति रत्नाकरः ।
-
याज्ञवल्क्यः
पितुः स्वसारं मातुश्च मातुलानौं खुषामपि । मातुः सपत्नौं भगिनौमाचार्य्यतनयां तथा ॥ आचार्यपत्नौं स्वसुतां गच्छंस्तु गुरुतल्पगः । fछत्वा लिङ्गं वधस्तस्य सकामायाः स्त्रियास्तथा ॥
तत्रापि राज्ञौ श्वश्वादयो द्रष्टव्याः पूर्व्ववाक्ये पितृ
For Private And Personal Use Only