________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१७८
दण्डविवेका
तथाहि तद्याख्यानं—आर्या चैवर्णिकस्त्री तदभिगमे ऽन्त्यश्चाण्डालो वध्य इति । नन्वेवम्,व्रात्यया सह संवासे चाण्डाल्या तावदेव तु।
इति मनुवचनविरोधः स्यात् । न स्यादविरोधिनस्तदर्थस्याभिगमदण्डमाकोपक्रमे दर्शितत्वात् । अस्तु वा दण्डभेदे वैकल्पिको व्यवस्था । यथा-निर्धनत्रैवर्णिकविषयं साङ्कप्रवासनं सधनतद्विषयः सहस्रदण्ड इति।
अथ स्वजनाभिगमे राज्ञीप्रमृत्यभिगमे चदण्डमाह नारदः,
माता मातृधसा-श्वश्रु-र्मातुलानी-पिवृष्ठसा । पितृव्यसखि-शिष्यस्त्री-भगिनी-तत्सखी-स्नुषा ॥ दुहिताचार्यभार्या च सगोत्रा-शरणागता। राज्ञौ-प्रव्रजिता-साध्वौ-धाची-वर्णोत्तमाऽपि या ॥ आसामन्यतमां गत्वा गुरुतल्पग उच्यते । शिश्नस्योत्कर्तनात्तत्र' नान्यो दण्डो विधीयते ॥ माताऽत्र जननीव्यतिरिक्ता पिपत्नी, गुरुतल्पग उच्यते इत्यतिदेशसामर्थ्यात् । मातृग्रहणं दृष्टान्तार्थमिति मिताक्षराकारः। पितृव्यपदं भ्राचादिपरमपि तुल्यन्यायात् । एवं भगिनौसखौति दुहित्रादिसखोपरमपि न्यायसाम्यात्। राज्ञी राज्यकर्त्तर्भार्येति मिताक्षराकारः।
१ घ पुस्तके तस्य ।
For Private And Personal Use Only