SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अन्त्याभिगमनदण्डः । १७७ एवेत्येवकारेण प्रवासनमा निषिध्यते। तेन वधोक्तेरविरोधः। पारिजाते अन्त्य एव स्यादिति पठितं व्याख्यातञ्च अन्त्य एव स्यान्न पुनः शूद्रेषु प्रवेश्य इति। मिताक्षरायामपि अन्त्य एवेति पठितम् । शूद्रश्चाण्डालान्यभिगमे चाण्डाल एव भवतीति व्याख्यातञ्च । यद्यपि,- रजकश्चर्मकारश्च नटो वरुड़ एव च । कैवर्त्त-मेदभिल्लाश्च सप्तैते चान्त्यजाः स्मृताः ॥ इति यमेन परिगणनात् रजकादय एवान्त्या इति गम्यते, चाण्डालश्च यवनादिवत् म्लेच्छः स्यात् न शूद्रेषु प्रवेश्य इति पारिजातदर्शनात् । ___ तथापि कुल्लूकभट्टाद्यभियुक्तव्याख्यानस्वरसाबहुवर्ण'साम्याच्च तस्य शूद्रविशेषत्वं काममास्तां किन्तु मनुवचने ऽन्त्यजो रजकादिरेव विवक्षितः। अन्त्यजा रजकादयः सप्त स्मत्यन्तरोक्ता इति नारायणीयव्याख्यानदर्शनात्। याज्ञवल्क्यवचने तु–अन्त्यापदं चाण्डालादिस्त्रीपरमिति। रजकाद्यपेक्षया तस्या जघन्यत्वेन सहसापेक्षया साङ्कप्रवासनस्य गुरुत्वेन द्वयोः सामञ्जस्यात् । रत्नाकरकृतोऽप्यचैव स्वरसात्। एतद्दाक्य एवान्त्यपदस्य तथैव विवरणात्। १घ ७ पुस्तकहये वर्णपदं नास्ति । 23 For Private And Personal Use Only
SR No.020171
Book TitleDandvivek
Original Sutra AuthorN/A
AuthorVardhaman, Kamal Krishna
PublisherOriental Institute
Publication Year1931
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy