________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दण्डविवेकः।
अथान्त्याभिगमनदण्डः।
तत्र सहसन्वन्त्यजस्त्रियमिति मनुवचनं समनन्तरं लिखितम्। इहान्त्यजस्त्रियं रजकादिस्त्रियमिति रत्नाकरः। रजकचर्मकारादिस्त्रियमिति मिश्राः । चाण्डालौमिति मिताक्षराकारः।
कुल्लकभट्टोऽपि अन्ते भवोऽन्त्यो यस्मादधमः शूद्रो नास्ति स च चाण्डालादिस्तस्य स्त्रियमित्याह ।
यत्त अन्त्यागमने वध्य इत्युक्तं तद्ब्राह्मणव्यतिरक्तविषयम् । याज्ञवल्क्यः ,
अन्त्याभिगमने 'त्वकं कवन्धेन प्रवासयेत् ।
शूद्रस्तथाऽय एव स्यादन्त्यस्या-गमे वधः ॥ अङ्ककवन्ध इति अशिरस्कपुरुषाकाररूपोऽङ्करतेनाङ्कयित्वा चैवर्णिकं निर्वासयेदिति रत्नाकरः। एवमेव कल्पतरुः । कवन्धेनाकयेत् कवन्धेन कुत्सितबन्धेन भगाकारेणाङ्कयित्वा इति मिताक्षराकारः युक्तञ्चैतदौचित्यात् ।
कामधेनौ कल्पतरौ चायेति पठितं तत्र वा विषये ल्यप् प्रयोग आर्षः । अवार्थदण्डोऽपि द्रष्टव्यः । सहसल्वन्त्यजस्त्रियमिति मनुवचनादिति मिताक्षरा। शूद्रोऽङ्मय
१ क पुस्तके त्वाय ।
For Private And Personal Use Only