________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org |
Acharya Shri Kailassagarsuri Gyanmandir
प्रकोपहारिदण्डः ।
१७५
पुमांसं दाहयेत् पापं शयने तप्त आयसे।।
अस्या दद्युश्च' काष्ठानि तत्र दह्येत पापकृत् ॥ लवयेत् स्वपतिमवज्ञाय पुरुषान्तरं गच्छेत् । ज्ञातौति स्त्रीगुणेन सौन्दर्यादिना दीप्तिकतेत्यर्थः। इति रत्नाकरः।
मनुटौकायां भट्टेन स्त्रीज्ञातिगुणदर्पितेति पठित्वा धनिकपित्रादिबान्धवदर्पण सौन्दर्यादिगुणदर्पण च या स्त्री पतिं लङ्घयेदिति व्याख्यातम् ।
नारायणेन तु पूर्वपाठेऽप्ययमर्थ उक्तः पित्रादिज्ञातिभिः स्त्रीगुणैश्च दर्पितेति । संस्थाने देशे बहुसंस्थिते चत्वरादौ। पुमांसमिति पुमांसमनन्तरोक्ताया जारमप्येते दध्यर्वध्यघातिन इति शेषः। यावत् स पापकारौ दग्धः स्यात्तावत्परितः क्षिपेयुरित्यर्थः । हन्यादित्यनुवृत्तौ विष्णुः,
स्त्रियमसक्तभर्तृकां तदतिक्रामणौच्च । असक्तभकामनुपभुक्तभर्तकाम् । क्वचिदशक्तति तालव्यपक्षोऽपिर दृश्यते, तदतिक्रामणौमन्यपुरुषगामिनौम । मिलितमिदं हनननिमित्तमिति रत्नाकरः।
१ ग अभ्यादध्यश्च ।
२ ख ग पाठोऽपि ।
For Private And Personal Use Only