________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१७४
Acharya Shri Kailassagarsuri Gyanmandir
दण्ड़विवेकः ।
ब्राह्मणौ दृषलं सेवत इत्यनुवृत्तौ,
श्रद्रन्तु घातयेद्राजा शयने तप्त आयसे । दहेत् पापकृतं तच काष्ठैः पचैस्तृणैस्तथा ॥
यमः,—
वृषलं सेवते या तु ब्राह्मणौ मदमोहिता । तां श्वभिः खादयेद्राजा संस्थाने वध्यघातिनाम् ॥ वध्यघातिनां संस्थाने - वध्यान् घातयन्ति चाण्डालादयस्तैरधिष्ठिते देशे । एतद्दर्शनात् गौतमवाक्ये पुरुषवधे प्रकाशत्वाभिधानात् स्त्रियाः श्वभिः खादनं निभृतमिति भ्रमो हेयः ।
तथा, -
वैश्यं वा क्षत्रियं वा ब्राह्मणौ सेवते यदा । शिरसो मुण्डनं तस्याः प्रयाणं गईभेन तु ॥
इह ब्राह्मण्या नग्मायाः शिरोमुण्डन - सर्पिरभ्युक्षणखरारोहण-राजपथानुवजनानि वसिष्ठेन विहितानि पूता भवतीत्युपसंहारदर्शनात् प्रायश्चित्तरूपाणि ।
अत एव कल्पतरौ -
शूद्रममौ प्राश्येदित्यन्तमेव तद्वाक्यं पठितमतस्तदिहोपेक्षितम् । अत एवानिच्छन्तौ च या भुक्तेत्यादि बृहस्पतिवचनमपि नाचाऽवतारितम् ।
मनुः, -
भर्त्तारं लङ्घयेद्या तु ज्ञातिस्त्रीगुणदर्पिता । तां श्वभिः खादयेद्राजा संस्थाने बहुसंस्थिते ॥
For Private And Personal Use Only