________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकीर्णापहारिदण्डः ।
आर्य्यस्त्रौ चैवर्णिकस्त्रौ । एतद्दर्शनात् पूर्व्ववाकये एकमङ्ग लिङ्गमेव, सर्व्वाङ्गछेदो वध एव । एकमूलत्वानुरोधात् ।
अत एव शूद्रस्य पुनरगुप्तां चैवर्णिकस्त्रियमभिगच्छतो लिङ्गोद्वार सर्व्वस्वापहारौ । गुप्तां गच्छतो वधसर्व्वस्वापहाराविति तेनैवोक्तमित्युपक्रम्य मिताक्षराकृता मनुवचनमवतारितम् ।
एवञ्चागुप्ते वद्धस्यैकाङ्गकर्त्तनमिति व्याख्यानमनादेयम् ।
आपस्तम्बः,
वध्यः शूद्र आर्य्यायां दारांश्चास्यापकर्षयेत्' । श्रर्य्याया मिति गच्छन्निति शेषः ।
हारौतः,—
श्रेयसः शयनशायिनं राजा बध्वा श्वभिः खादयेत् काष्ठैश्चैतां दहेत् ।
१ ख उपकर्त्तयेत् ।
१७३
श्रेयस उत्कृष्टवर्णस्य शयनशायिनं स्त्रौगामिनं । एतामुत्कृष्टवर्णस्त्रियम् ।
गौतमः, —
वभिश्च खादयेद्राजा हौनवर्णगमने स्त्रियम् । प्रकाशं पुमांसं घातयेद्यथोक्तं वा ।
sौनवर्णगमन इत्यनेन स्त्रियाः कामित्वं गम्यते । यथोक्तमिति पुंसोऽपि वा श्वभिः खादनमिति रत्नाकरः । यथोक्तं लिङ्गोद्धारः सव्र्व्वस्वग्रहणञ्च पारिजातः ।
For Private And Personal Use Only