________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०२
दण्डविवेकः ।
मनुः,
शूद्रो गुप्तमगुप्तं वा दैजातं वर्णमावसन् ।
अगुप्तेऽङ्गकसवस्वै गुप्ते सर्वेण होयते ॥ दैजातं वर्णं दिजातिस्त्रियमावसन् अभिगच्छन हौयते इत्यन्वयः। केनेत्याह तस्मिन् दैजाते वर्णे अगुप्ते एकेनाङ्गेन सर्वस्वेन च, गुप्ते तु सर्वेणाङ्गेन सर्वस्वेन च। तेन द्विजातिस्त्रियमभिगच्छतः शूद्रस्य तस्यागुप्तत्वपक्षे एकाङ्गछेदः सर्वस्वग्रहणं दण्डः गुप्तत्वपक्षे तु सर्वाङ्गछेदः सर्वस्वग्रहणञ्चेति फलितार्थः।
रत्नाकरादौ तु क्वचिदगुप्तैकाङ्गसर्वस्वीति क्वचिदगुप्ताजैकसवस्वैरिति च पठितं तवाप्युक्त एवार्थः स च यथाकथञ्चिन्नेयः।
मनुटौकायामगुप्तमङ्गस स्वैर्गुप्तं सर्वे णेति पठितम् । कल्पतरौ तु__ अगुप्तमङ्गसर्वस्वी गुप्तं सर्वेण हौयते ।
इति पठित्वा अगुप्तमरक्षितं अङ्गसर्वस्वसहितो हौयते तेन येनाङ्गेनापराध्यते तेन सर्वस्वेन च होयते इत्यर्थः ।
रक्षितन्तु व्रजन् सर्वेणाङ्गेन हौयते इत्यत्र इति व्याख्यातम् । एतन्मते रक्षिताभिगन्तुः सवस्वग्रहणं नास्ति । शूद्रस्येत्यनुवृत्तौ गौतमः,
आर्यस्त्यभिगमने लिङ्गोडारः सर्वस्वग्रहणञ्च । गुप्ता चेहरोऽधिकः।
१ सवखौति क्वचित् पाठः ।
For Private And Personal Use Only