________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकोप हारिदहः ।
२२१
यदि क्षत्रियः परक्षत्रियामगुप्तां गच्छेत्तदा गईभमूत्रेण मुण्डनीयः ।
यदा,
वैश्यवत् पञ्चशतं पणान् दण्ड्यः । लक्ष्मीधरेण तु दण्डमेवेत्यत्र मौण्ड्यमेवेति पठितम् । तथा,
अगुप्ते क्षत्रिया-वैश्ये शूद्रां वा ब्राह्मणो व्रजन् । शतानि पञ्च दण्ड्यः स्यात्सहस्रन्वन्त्यजस्त्रियम् ॥ शूद्रां गुप्तामगुप्तां वेति नारायणः ।
अत्र शूद्रामित्यत्र होनायामईिक इति वृहस्पतिवाक्ये होनायामित्यच चान्यपूवा शूद्रा विवक्षिता, अनन्यपूर्वायां निर्वासनस्मरणात्।
तथा चापस्तम्बः,रनाश्य आर्यः शूद्रायाम् ।
तद्राह्मणपरिणीतानन्यपूर्वाशूद्राविषयम् । आर्यो ब्राह्मणादि श्यो निर्वास्यः ।
अत एवात्र शूद्रायामनन्यपूवायामिति कल्पतरुकृता व्याख्यातम् ।
यत्तु शूद्राव्यतिरिक्तहीनाविषयं वृहस्पतिवचनमिति केनचिदित्युक्तं, "तन्न" दण्डविसम्बादात् निर्वासनापेक्षया मध्यमदण्डस्य लघुत्वात् ।
१ मूले वैश्यराजन्ये इति पाठः । २ ख ग पुस्तकद्दये नाप्यः ।
३ ख ग-नाप्यः।
For Private And Personal Use Only