________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दगडविवेकः ।
ब्राह्मणौमिति वैश्ये पञ्चदशदण्डः शूद्राभ्रमादिना निर्गुणजातिमात्रोपजीविब्राह्मणोगमनविषय इति मनुटोकायां कुल्लूकभट्टः।
एवञ्च दण्डलाघवं सुघटम् । क्षत्रियन्तु सहस्रिणमिति तस्य रक्षाधिकृतत्वादधिको दण्ड इति सर्वज्ञः ।
अन्ये तु–पञ्चशतं पञ्चशतमात्रवित्तं सहस्रिणं सहस्रशेषमात्रवित्तमित्यर्थमाहुः । उभाविति,
रक्षितां ब्राह्मणों गच्छतोवैश्यक्षत्रिययोः शूद्रवत् सर्वस्वग्रहणसहितं सवाङ्गच्छेदो दण्डः । कटामिना वा दाह इत्यर्थः। कटो वौरणः स चात्र वैकल्पिकः ।
वरणैः शूद्र लाहितदर्भ वैश्यं शरपत्रैः क्षत्रियं वेष्टयित्वाऽनौ प्राश्येत् । इति वसिष्ठदर्शनात् ।।
अयमनयोर्दण्डो गुणवत्ब्राह्मणोगमनविषय इति मनुटोका। तेन सर्वस्व-सहस्रदण्डोक्ते रविरोधो नेयः । आह च नारायणः,
निर्गुण-गुणवत्ब्राह्मण्यपेक्षया दण्डहयमिति । तथा,
क्षत्रियायामगुप्तायां वैश्ये पञ्चशतो दमः । मूत्रेण मौण्ड्यमृच्छेत्तु क्षत्रियो दण्डमेव च ॥
१ ग दण्डोक्तनाविरोधः।
For Private And Personal Use Only