________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
तत्र याज्ञवल्क्यः, -
Baden
Acharya Shri Kailassagarsuri Gyanmandir
प्रकीर्णापहारिदण्डः ।
तचोत्तमस्त्रिया होनाभिगमानुमतावभिलाषप्रकाशने कर्णछेदो न त्वन्यचाऽपराधाभावादिति प्रतिभाति । अथाभिगम्याया गुप्तत्वागुप्तत्वकृतः प्रातिलोम्यानुलाम्यकृतश्च दण्डविशेषो दर्श्यते ।
१६७
'स्वजातावुत्तमो दण्ड अनुलोम्ये तु मध्यमः । एतत् सर्व्ववर्णानां बलात्कारेण गुप्तपरदारगमनविषयम् । उत्तमश्च साहसः साशीतिपणसहस्त्रात्मक इति मिताक्षराकारः । युक्तचैतत् तदुक्तदण्डे तदुक्तसाहससंख्याया एव ग्रहणौचित्यात् ।
मनुः, -
सहस्रं ब्राह्मणो दण्ड्यो गुप्तां विप्रां बलाद्वजन् । शतानि पञ्च दण्ड्यः स्यादिच्छन्त्या सह सङ्गतः ॥ वैश्यश्चेत् क्षत्रियां गुप्तां वैश्यां वा क्षत्रियो व्रजेत् । यो ब्राह्मण्यामगुप्तायां तत्समं दण्डमर्हतः ॥ साहस्रं ब्राह्मणो दण्डं दाप्यो गुप्ते तु ते व्रजन् । शूद्रायां क्षचियविशोः साहसो वै भवेद्दमः ॥ यो ब्राह्मण्यमिति पञ्चशतानि वैश्यस्य सहस्रं क्षत्रियस्येति नारायणः | तत्समं मध्यमसाहसमिति रत्नाकरः । सहस्रपणं पञ्चाशत्पणात्मकमिति मिताक्षराकारः । तथाहि अनेन स्वजातावित्यादि व्याख्याय यदा पुनः सवर्णामगुप्तामानुलोम्येन यथाक्रमं गुप्तां वा गच्छति
१ व पुस्तके सजाती 1
For Private And Personal Use Only