________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६८
दगड विवेकः ।
तदा मनुनैव विशेष उक्त इति कृत्वा प्रथमचरमश्लोकाaaतारितौ । क्षत्रियवैश्ययोरन्योन्यदाराभिगमने यथाक्रमं सहस्रपणपञ्चाशत्पणात्मकौ दण्डौ तदाहेति कृत्वा मध्यमः श्लोकोऽवतारितः ।
एवञ्चैतस्मात् प्रथमश्लोके दण्ड्यो गुप्तामित्यत्रागुप्तामित्यकारश्लेषोऽस्तीति गम्यते ।
तथा ब्राह्मणस्य बलात् गुप्तब्राह्मणोगमने साशौतिपणसहस्रदण्डः । याज्ञवल्क्येन तस्यैवोत्तमसाहसत्वाभिधानात् । बलादगुप्तब्राह्मणोगमने तु सहस्रपणात्मकः । बलं विना तगमने पञ्चशतपणात्मक इति प्रथमश्लोक समुदायार्थः ।
इत्थञ्च,
यो ब्राह्मण्यामित्यनेनान्तरोक्तयोरुभयोरपि परामर्शोयुक्तः ।
पञ्चशतमाचानुकर्षे तु वैश्य-क्षत्रिययोः प्रतिलोमानुलोमस्त्रौगमने नैयायिकं दण्डवैषम्यमुक्तं न स्यात् ।
यदपि व्याख्यातं कुल्लकभट्टेन वैश्यचचिययोरगुप्तब्राह्मणोगमने वैश्यः पञ्चशतं कुर्य्यात् क्षत्रियन्तु सहस्रिण - मित्यनेन यो दण्ड उक्तस्तमेवात्र तावर्हत इति ।
तद्रत्नाकरपक्षे सर्व्वथापि न घटते विरोधात् । मिताक्षरापक्षे तु यद्यपि तत्सममिति संख्यासाम्यनिरुपको ऽगुप्तब्राह्मणोगमनदण्ड एकच ब्राह्मणकर्म्मकोऽन्यच क्षत्रियवैश्यकर्मक एवेति विशेषोऽस्ति । तथापि फलतो न विशेष इति न विरोधः ।
For Private And Personal Use Only