________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६६
दण्डविवेकः।
च्छन्तौमेव गच्छति तस्य सर्वस्वमादाय भगाङ्कनायित्वा पुरान्निर्वासनं दण्डः।
यस्तु बलछद्म विहाय दूतादिप्रेषणद्वारा समानजातीयां गच्छति तस्यान्तिम उत्तमो दण्डः । हौनायान्तु बलछले विहाय गच्छतो मध्यमः। उत्कृष्टजातीयान्तु दूतादिसम्प्रेषणहारा बलछलाभ्यां गच्छतो मारणमेवेत्यर्थ इति रत्नाकरः।
एतदर्शनाइलछलाभ्यां सजातीयाभिगमे उत्तमाधिको दण्डो होनजातीयाभिगमे उत्तम इति गम्यते, हौनस्य बलेनोत्तमाभिगमे विचित्रो वध इति शेषः। अपराधगौरवात् । पुमांसँ दाहयेत् पापं शयने तप्त आयसे ।
इति वचनादा। दर्पगमनाधिकारे मनुरिति कृत्वा कामधेन्वादावस्यावतारणात्। याज्ञवल्क्यः,
प्रातिलाम्ये वधः पुंसो नार्याः कर्णादिकर्त्तनम् । आदिग्रहणान्नासादेश्च कर्त्तनमिति मिताक्षराकारः। आदिशब्दः केशादिपर इति रत्नाकरः। कामधेनाववकर्त्तनमिति पठितम् ।
यत्तक्तं रत्नाकरकृता वृहस्पतिवाक्येऽपि स्त्रीणां कर्णादिकर्तनसहितमेव प्रमापणमिति ।
१ ग बलछले ।
For Private And Personal Use Only