________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकीर्णापहारिदण्डः ।
१६५
अस्वतन्त्राः सस्वामिकाः स्त्रियो राज्ञा न ग्राह्या नाकर्षणीयाः। राजा तु पुरुषं नयेत् तस्वामिनं प्रापयेत्। तेनैव सा शास्या स्वामित्वे तैरेव तद्दण्डो' ग्राह्य इति तात्पर्य मिति रत्नाकरः। तथा,
प्रोषितस्वामिका नारी प्रापिता यद्यभिग्रहे। तावत् सा बन्धने स्याप्या यावत्स्यादागतः प्रभुः ॥ अभिग्रहे अभिसारनिमित्तके ग्रहणे सति प्रापिता राजपुरुषै राजगृहं नौता। सेयमभिगमदण्डमाका दर्शिता।
अथान्ययोनिविषयस्याभिगमस्य बलछलादिकृतत्वकृतं दण्डविशेषमाह। बृहस्पतिः,सहसा कामयेद्यस्तु धनं तस्याखिलं हरेत् । उत्कृत्य लिङ्गं वृषणौ भ्रामयेईभेन तु ॥ छद्मना कामयेद्यस्तु तस्य स्युर्बहवो दमाः। अङ्कयित्वा भगाङ्कन पुरान्निर्वासयेत्ततः ॥ दमोऽन्तिमः समायान्तु होनायामाद्धिकस्ततः । पुंसः कार्योऽधिकायान्तु गमने सम्प्रमापणम् ॥ यः सहसा बलेन परस्त्रियमनिच्छन्तीमेव गच्छति तस्य सर्वस्वं गृहीत्वा लिङ्गवृषणौ छित्त्वा गईभेन पुरपरिभ्रामणं दण्डः । यस्तु छद्मना छलेन परस्त्रियमनि
१ ग खामिद्वारैव।
For Private And Personal Use Only