________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६४
दण्डविवेकः ।
इह द्रव्यहीनाया मृतभर्तकायाः स्वेच्छया ग्रहणेऽतिप्रसङ्गादेवं प्रतिभाति । संग्रह्णन् इतिवचनात् शूद्रादेः स्वयंग्राहादिविषयमिदं वचनम् । बलादिति छलप्रलोभनादिपरम् ।
अद्रव्यामिति विशेषणस्य चायमभिप्रायो ग्रासाच्छादनदानादिना तां प्रलोभ्य गृह्णतो न दण्ड इति । व्यासः,
गुप्तायाः संग्रहे दण्डो यथोक्तः परिकीर्तितः । गच्छन्त्यामागतायान्तु गच्छतोऽर्द्धदमः स्मृतः ॥ यथोक्त उत्तमसाहसरूप इति रत्नाकरः। यो यत्र विहितः स यथोक्त इति तत्त्वम् । अईदण्डश्च क्लोवादिभाऱ्यासु दण्डाभाव एतद्यतिरिक्तविषय इति रत्नाकरः। वृहस्पतिः,
गृहमागत्य या नारौ प्रलोभ्य स्पर्शनादिना । कामयेत्तत्र सा दण्ड्या नरस्याईदमः स्मृतः ॥ छिन्ननासौष्ठकर्णानां परिभ्राम्याम मज्जयेत् ।
खादयेहा सारमेयैः संस्थाने बहुसंस्थिते ॥ . तत्र सा दण्डोति स्त्रियं प्रलोभ्य संगच्छतः पुरुषस्य दण्डस्तेन दण्ड्या तद्दण्डाई पुरुषस्य छिन्नेत्यादिना तस्या एवाधिको वैकल्पिक उक्तः। बहुसंस्थिते बहुभिराकोणे। अथ कात्यायनः,नास्वतन्त्राः स्त्रियो ग्राह्याः पुमांस्तवापराध्यते । प्रभुणा शासनौयास्ता राजा तु पुरुषं नयेत् ॥
For Private And Personal Use Only