________________
Shri Mahavir Jain Aradhana Kendra
१५४
www.kobatirth.org
दण्डविवेकः ।
Acharya Shri Kailassagarsuri Gyanmandir
चतुर्थः परिच्छेदः ।
अथ परदाराभिमर्षणदण्डः ।
तच परदारपदेन स्वभार्थ्याव्यतिरिक्ता स्त्रौ विवक्षिता । सा विविधा परिणौता अपरिणीता चेति । तयोः परिणीता अनेकविधा साध्वी बन्धकौति, उत्तमा हौनेति 'स्वजना अस्वजनेति, गुप्ता अगुप्ता चेति, लौवादिभार्थ्या अन्येति ।
परिणीता चिविधा कन्या व्रात्या वेश्येति । एते विभाजकोपाधयो वलछलानुरागादिप्रयोग वद्दण्डभेदाय भवन्तौति परिभाषान्यायेन प्रमुखे दर्शिताः ।
आसामभिमर्षणमपि द्विविधं संग्रहणमभिगमश्च । तच संग्रहणं नाम समीचीनं ग्रहणं परस्त्रिया आत्मीयता - करणम् ।
तद्दिभजते बृहस्पतिः, -
पारुष्यं द्विविधं प्रोक्तं साहसश्च द्विलक्षणम् । पापमूलं संग्रहणं चिप्रकारं निबोधत ॥
प्रकारानाह, -
बलेापाधिहृते द्वे तु तृतौयमनुरागजम् । एतदभिगमेऽपि द्रष्टव्यम् । तस्याप्येतत्पूर्वकत्वात् । चयमपि पुनर्विभजते ।
तत्पुनस्त्रिविधं प्रोक्तं प्रथमं मध्यमोत्तमम् ।
१ ग पुस्तके सुजना व्यसुजनेति ।
२ ग बलात् परिहृते । घ - वलोपाधिकृते ।
For Private And Personal Use Only