________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
परदाराभिमर्षणादण्डः ।
१५५
अत्र प्रकारचयं व्याचष्टे,
अनिच्छन्त्या यत्क्रियते सुप्तोन्मत्तप्रमत्तया । प्रलपन्त्या रहसि वा बलात्कारकृतन्तु तत् ॥ छद्मना गृहमानौय दत्त्वा वा मद्यकार्मिणम् । संयोगः क्रियते यस्यास्तदपाधिकृतं विदः ॥ अन्योऽन्यचक्षरागेण दूतीसंप्रेषणेन वा। कृतं रूपार्थलाभेन ज्ञेयं तदनुरागजम् ॥ मत्स्यपुराणे,
यस्तु सञ्चारकस्तत्र पुरुषः स्त्यथ वा भवेत् । पारदारिकवद्दण्ड्यो यश्च स्यादवकाशदः ॥ सञ्चारको यः पुरुषं स्त्रियं वाऽभिसारार्थमभिसारयोग्यं देशविशेषमुपसर्पयतौति हलायुधः । अवकाशदो रहस्यस्थानदायो।
मनुः,कितवान् कुशौलवान केरान क्षिप्रं निर्वासयेत् पुरात् ।
केराः परस्त्रीपुरुषसङ्केतकारिण इति रत्नाकरः । एवमेव हलायुधः। प्रथमादिभेदास्तु विस्तरेण व्यासादिभिरुदाहृतास्ते विस्तरभयादेव नात्र लिखिताः। दिङ्मारन्तु तेषां दण्डपरिछेदार्थमुदाहृतम् । तत्र वृहस्पतिः,
अपाङ्गप्रेक्षणं हास्यं दूतौसम्प्रेषणं तथा । स्पर्श भूषणवस्त्राणां संग्रहः प्रथमः स्मृतः ॥ अत्र स्वकृतस्पर्शवत् परस्त्रीकृतस्पर्श क्षमाऽपि द्रष्टव्या। १ क ग काम्मणम् ।
२ ग स्पर्श क्षमापि।
For Private And Personal Use Only