________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
स्तेयदण्डः ।
१५३ एवञ्च रत्नाकरव्याख्यानेऽपि जीवनपदं तत्तत्कालौनप्राणपरमेव आपस्तम्बसम्बादात् न तु जीविकापरमुक्तदोषादिति।
अथ दण्डानुवृत्तौ विष्णु,अनुक्तद्रव्यहरणे मूल्यसमम् ।
अस्य वाक्यस्य रत्नाकर-कामधेन्वादौ च क्षुद्रद्रव्येषु दण्डमभिधायावतारणात् तेषु च मूल्यदिपञ्चगुणादिदण्डस्य दर्शनात्तत्तुल्येषु तस्यैवौचित्यात् क्षुद्रतरद्रव्यापहारविषयमिदं वचनमपहारनिमित्तप्रीत्याद्यतिशयविषयं वेति प्रतिभाति।
इति महामहोपाध्याय-धर्माधिकरणिकश्रीवर्द्धमानकृतौ दण्डविवेके
स्तेयपरिच्छेदस्तृतीयः ।
For Private And Personal Use Only