________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
स्तेयदण्डः ।
अथ नारदः,
गोषु ब्राह्मणसंस्थासु स्फुरायाश्छेदनं भवेत् ॥ ब्राह्मणसंस्थासु ब्राह्मणसम्बन्धिनौषु षधर्थे सप्तमी स्फुरा पाणेरुपरिभागः। बृहस्पतिः,
गोहर्ता नासिकां छित्त्वा बध्वा चाम्भसि मज्जयेत् । गोहतैति द्वितीयार्थे आर्षप्रयोगः। एतद्ब्राह्मणस्वामिकयज्ञोपयुक्तोत्कृष्टगवौपरं द्रष्टव्यम्। वचनमिदं कामधेनौ दृष्टम् । मनुः,
गोषु ब्राह्मणसंस्थासु स्फुरिकायाश्च भेदने । पशूनाञ्चैव हरणे सद्यः कार्योऽर्द्धपादिकः ॥ पशवोऽवाजाविक विडाल नकुलव्यतिरिक्ताः क्षुद्रपशव इति रत्नाकरः। मध्यमाः पशव इति प्रतिभाति। ब्राह्मणस्वामिकया गवा साहचर्यात् पशूनां महिषादौनामिति नारायणव्याख्यानाच्च ।
न च नारदीय-स्फुराछेदनविरोधः। तन्मतेऽपि तुल्यत्वात् ।
वस्तुतस्तु नारदवचने गोपदमुत्कृष्टगवौपरं मनुवचने त्वप्रकृष्टगवीपरं पशुपदञ्चाबाब्राह्मणस्वामिकाप्रष्टगवादिपरमिति न विरोधगन्धः । अईपादिकः छिन्नाईपादय इति नारायणः।
For Private And Personal Use Only