________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३०
दण्डविवेकः। चाल्पं बहु बहुतरं वा चतुष्पदापहारिणो दण्डं कुर्य्यादिति श्लोकदय समुदायार्थः ।
तब बहुतरदण्डो यथा। याज्ञवल्क्यः,
बन्दिग्रहांस्तथा वाजिकुञ्जराणाञ्च हारिणः ।
प्रसह्मघातिनश्चैव शूलमारोपयेन्नरान् ॥ व्यासः,
अश्वहर्ता हस्तपादौ कटिं छित्त्वा प्रमाप्यते । बहुर्यथा-व्यासः,
वाजिवारणबालानां चाददौत हस्पतिः ॥ वाजौति हरण इति विपरिणमितानुषङ्गः। आददौतेति सर्वस्वमिति पूर्वाईस्थितानुषङ्गः । तथा-विष्णुः,
गोऽश्वोष्ट्रगजापहार्येककरपादिकः कार्य्यः । अल्पो यथा-शङ्खलिखितौ,
हत्यश्वगोषायनेषु राजपुत्रापहारवद्दण्डः । राजपुत्रापहारवदिति अष्टाधिकं पणसहसं शारीरो वा दण्ड इत्यर्थः। तदेवं महापशुषु यस्य यदोपयोगभूयस्त्वं गौरवं वैशिष्ट्यं वा प्रकृष्टं तस्य बन्धनमोक्षणादिनाऽपहारे यथाश्रुतो वधः। यस्य तदपकृष्टं तदपकारे सर्वस्वमेव करपादभेदो वा। यस्यापकृष्टतरं तदपहारे मध्यमसाहसादिदण्ड इति सिद्धम् ।
१ क ख पुस्तकदये हयेतिपदं नास्ति ।
For Private And Personal Use Only