________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
स्तेयदण्डः ।
१२६
महान्तः पशवो हस्त्यादयः, मध्यमा वृषादयः । एतद्विशेषविहितेतरविषयम् । तत्र महापशुषु विशेषमाह
तथा,
Acharya Shri Kailassagarsuri Gyanmandir
मनुः, -
"असन्दितानां सन्दाता सन्दितानां विमोक्षकः । दासाश्वरथहर्त्ता च प्राप्तः स्याच्चौर किल्विषम् ॥
――――――――――――――――
महापशूनां हरणात् शस्त्राणामौषधस्य च ।
कालमासाद्य कार्य्यच्च दण्डं राजा प्रकल्पयेत् ॥ सन्दितानां चरणबद्धानामिति कल्पतरुः । सन्दाता हरणहेतुबन्धनकारौ । विमोक्षको हरणहेतुमोक्षकारौ । चौरकिल्विषं चौरदण्डं शारीरमार्थं वा, स च मारणाङ्गछेदनापहाररूप इति मनुटौकायां कुल्लूकभट्टः ।
नारायणस्तु असन्दितानामबद्धानाम्पशूनामस्वामिकतयोत्सृष्टानां वाहनादिकर्त्ता सन्दाता । सन्दितानामप्यन्यदौयपशूनां तद्विरोधाचरणबुड्या मोचयिता विमो क्षकः । दासादिहर्त्ता तु कथञ्चित्प्रतारणादिना तैः स्वकार्य्यं कारयिता तेन तदस्तेयेऽपि तत्तत्कर्म्मण्येव स्तेयाति' देशोऽयमित्याह ।
युक्तञ्चैतदेव यद्यपौदं न स्तेयं तथापि न विरोधः स्तेयातिदेशस्यापि स्तेयदण्डप्रात्यर्थत्वात् । कालेो युडोपयोगानुपयोगसमयः । कार्य्यमुपयोगस्य भूयस्त्वाल्पत्वे । एतत् सर्व्वमालेाक्य च कालसंगृहीतमुपलक्षितं वा । वाजिवारणादेगौरवागौरवे विशिष्टत्वाविशिष्टत्वे च क्वचि -
१ मूले २ क ख पुस्तकद्वये – कम्मण्येवातिदेशोऽयम् ।
17
- कासन्धितानां सन्धाता सन्धितानां च मोक्षकः ।
For Private And Personal Use Only