________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२८
दण्डविवेकः।
कामधेनौ राजपुत्रापहारेष्विति पठितं' तत्कुलौनेषु राजकुलौनेषु पुत्रेषु राजपुत्रव्यतिरिक्तपुरुषेषु।
अईमष्टाधिकसहस्राई स्त्रीपुरुषयोश्च राजकुलौनयोरईमष्टसहस्रं शारीरो वेति विकल्पे धनवत्त्वाऽधनवत्त्वाभ्यां व्यवस्थेति रत्नाकरः।
अत्र प्रतिभाति राजकुलौनापहारस्यातत्कुलौनापहारापेक्षया गुरुत्वादार्थशारौरदण्डयोः साहित्यं वाक्यार्थः शारीरो वेति वाकारः समुच्चय इति । दासदास्योरपहारे मनुः,
दासाश्वरथहर्ता च प्राप्तः स्यान्चौरकिल्विषम् । नारदः,गोषु ब्राह्मणसंस्थासु स्फुरायाश्छेदनं भवेत् ।
दासौन्तु हरतो मध्यस्तथा पादस्य छेदनम् ॥ ब्राह्मणसंस्थासु ब्राह्मणस्वामिकासु। एवञ्च दासौषु ब्राह्मणस्वत्वेन गौरवादण्डाधिक्यदर्शनादासेष्वपि ब्राह्मणस्वामिकेषु चौरदण्डः शारीरमार्थं वाऽधिकं वाच्यमन्यस्वामिकेष्वल्पमिति प्रतिभाति। अथ चतुष्यदापहारे नारदः,महापशून् स्तेनयतो दण्ड उत्तमसाहसः । मध्यमो मध्यमपशून् पूर्वः क्षुद्रे पशौ हृते ॥
१ ग पुस्तके पाठः। २ क ख छ दासौसु। ३ मूले अर्द्धपादविकर्त्तनमिति पाठः । ४ ग पुस्तके क्षद्रपशून् हरन् ।
For Private And Personal Use Only