________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
स्तेयदण्डः ।
१२०
विकल्पस्तु आकाङ्क्षापूरणे सतौतिवचनात्, सचायं स्त्रीविषयतया प्रौढपुरुषविषयतया च व्यवतिष्ठते ।
कन्याहरणे वधस्य बालहरणे सर्वस्वहरणस्य व्यासेन शृङ्गग्राहिकतयाऽभिधानात् विषयभेदेनाविरोधाच्च।
एवञ्च परपरिणीतस्त्रौहारिणं लोहशयनमारोप्य कटाग्निदाहेन हन्यात् प्रौढपुरुषहारिणन्तु हस्तपादौ छित्त्वा शूलारोपणेन हन्यादित्येकः कल्पः प्रौढपुरुषहारिणो हस्तहयछेदरूपः शारीर उत्तमसाहसरूपश्चार्थों दण्डः । ऊढस्त्रीहारिणस्तु सर्वस्वहरणमित्यपरः कल्यः ।
तदनयोवैषम्येण विरोधे मनुवचने कुलौनानामिति श्रवणात् कुलीनस्त्रीपुरुषापहारे प्रथमः कल्पः, अकुलौनतदपहारे तु द्वितीय इति व्यवस्थेति ।
राजकुलौनयोः स्त्रीपुरुषयोरपहारे विशेषमाहतुःशङ्खलिखितौ,
राजपुत्रापहारेऽष्टसहस्रं शारीरो वा दण्डस्तत्कुलौनेषु पुत्रधई स्त्रीपुरुषयोः।
अष्टसहस्रमष्टाधिकसहस्रं तच्च पणानां लिखितपरिभाषानुसारात् कार्षापणानामिति रत्नाकरः। तत्रापि स एवार्थः।
तथाहि अजाविकेऽर्द्धत्रयोदशपणा नकुलविडालापहरणे चयः कार्षापणा इत्युपसंहारदर्शनम् । तत्र च कार्षापणः पणपर्याय एव पुराणपर्यायत्वेऽजाविकापेक्षया नकुलविडालयोलघुत्वेन दण्डगौरवानुपपत्तेः ।
For Private And Personal Use Only