________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२६
दण्डविवेकः ।
नारदः,पुरुषं हरतो हस्तौ दण्ड उत्तमसाहसः । सर्वस्वं हरतो नारौं कन्यान्तु हरतो वधः ॥
वाजिबारणबालानां चाददौत बृहस्पतिः । हस्ताविति छित्त्वेति शेषः। कामधेनौ-दृष्टमिति पठितम् । सर्वस्वमिति नारौं हरतः सर्वस्वग्रहणं दण्ड इत्यर्थः। बालानामिति हरत इति विपरिणामेनान्वयः । बृहस्पतिरित्यतःपूर्वमित्याहेति शेषः ।
अत्र चैकवस्तुग्रहणे परस्परविरुवशारौरार्थदण्डानां हारकोत्कृष्टापकृष्टजातीयत्वधनवत्त्वाधनवत्त्व--हार्योत्कर्षापकर्व्यवस्था कार्येति रत्नाकरः ।
तवं प्रतिभाति मनुना सामान्यतः स्त्रीपुरुषहारिणो वधो विहितः। तस्य विचित्राविचित्रतयाऽनेकत्वात् करणाकाङ्गायां वृहस्पतिना कटाग्निदाहरूपं तदिहितं तच्च स्त्रीहर्तेत्यादिव्यासवचनैकवाक्यतया लाहशयनसाहित्येन स्वौहरणपरतया व्यवतिष्ठते ।
एवं निराकाङ्क्ष स्त्रीहारिणो वधे नरहनॆत्यादिव्यासवचनात् पुरुषवधे हस्तपादछेदपूर्वकं चतुष्यथावस्थापनरूपं शूलारोपणापरपर्य्यायकरणं प्रतीयते।
एवं पुरुषवधेऽपि निराकाङ्क्ष पुरुषमित्यादिनारदवचनोक्त-पूर्वोक्तयोविकल्पः पर्यवस्यति। स्मृतिशास्त्रे
१ ग पुस्तके पात्यः । २ ग पुस्तके स्त्रौं तु हरतः ।
For Private And Personal Use Only