________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
स्तेयदण्डः ।
१२५
अत्र नारद-कात्यायनौ,स्वदेशघातिनो ये स्यस्तथा मार्गनिरोधकाः ।
तेषां सर्वस्वमादाय राजा शूले निवेशयेत् ॥ यस्य राज्ञो देशे चौरा वसन्ति तद्राजदेशस्तहातिनः स्वदेशघातिनः। तेषां चौराणां । तेन परदेशघाते चौरैः क्रियमाणे तेषां राज्ञा सर्वस्वहरणं न कार्यम् । तद्राजानुकूलत्वादिति रत्नाकरः।
अत्र वाक्यस्यास्य रत्नाकरादौ पान्यमुषमुपक्रम्यावतारणेऽपि तत्र परिसङ्ख्यायकस्य स्वदेशीय-मार्गनिरोधस्य समभिव्याहारदर्शनेऽपि परदेशीय दिचतुःपदहारिणोऽपि दण्डाभावो न्यायसाम्यादिति प्रतिभाति । एवञ्च परदेशाहृतं द्रव्यमित्यादि कात्यायनवचनेन सममेकमूलकत्वमेवेति । अथ द्विपदापहारे मनुः,
पुरुषाणां कुलौनानां नारीणाञ्च विशेषतः । मुख्यानाञ्चैव रत्नानां हरणे वधमर्हति ॥ कुलौनानां सत्कुलजातानाम् । तत्र वृहस्पतिः,
मनुष्यहारिणो राज्ञा दग्धव्यास्तु कटाग्निना । कटेन वेष्टयित्वा तत्प्रभवेणाग्निना दाह्या इत्यर्थः । व्यासः,स्त्रीहर्ता लोहशयने दग्धव्यो वै कटाग्निना। नरहर्ता हस्तपादौ छित्त्वा स्थाप्यश्चतुष्पथे ॥
१ घ पुस्तके यज्ञावरोधिनः ।
For Private And Personal Use Only