________________
Shri Mahavir Jain Aradhana Kendra
१२४
www.kobatirth.org
दगड विवेकः
।
यत्तु,—
सन्धिच्छेत्ताऽनेकविधं धनं प्राप्नोति वै गृहात् ।
प्रदाप्य स्वामिने सर्व्वं हृतं नृपे निवेशयेत् ॥ इति व्यासवचनम् ।
कात्यायनः, -
---
Acharya Shri Kailassagarsuri Gyanmandir
तस्य हृतदापनमात्रे तात्पर्य्यमनेकधनलाभाभिधानन्तु
पक्षप्राप्तानुवाद एव ।
अतएव,
सन्धिच्छिदो हृतं दाप्याः शूलमारोपयेत्ततः । इति बृहस्पतिना हृतमित्येवोक्तं न तु स्तेयं तस्यानेक
विधत्वादिति ।
तरवापर्य्याप्तेऽपि चौर्य्यादौ दण्डमाह -
आरम्भे प्रथमो दण्डः प्रवृत्ते मध्यमः स्मृतः । यस्य योऽभिहितो दण्डः पर्य्याप्तस्य स वै भवेत् ॥
इति ।
अथैतेषु सन्धिच्छिदो दण्डमाह ।
मनुः,
सन्धिं छित्त्वा तु ये चौर्यं राचौ कुर्व्वन्ति तस्कराः । तेषां छित्त्वा नृपो हस्तौ तौक्ष्णशूले निवेशयेत् ॥
t
अत्र हृतदापनमपराधख्यापनच्चाधिकमिति प्रागुक्तम् । पान्यमुषो दण्डमाह बृहस्पतिः,
तथा पान्यमुषो वृक्षे गले बद्ध्वाऽवलम्बयेत् ॥
१ क ख पुस्तकदये हृत्वा ।
―――――――――――――――――
For Private And Personal Use Only