________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
स्तेयदण्डः ।
१२३
नन्वेवं पान्थमुट् प्रभृतौनामप्येतविशेषत्वं प्राप्तं तैरपि प्रकौफनामेव रत्नादौनामपहारादिति चेत्। सत्यं, किन्तु तेषामपहृतद्रव्यस्य उत्तमादिभेदमपुरष्कृत्य पान्थमोषणादिरेव दोष इति भेदेनोपन्यासः ।
अतएव द्विपदाद्यपहारे सन्धिच्छेदादिस्तदुपायो न दृश्यते । पान्थमोषादौ द्रव्यविशेषवदिहापि हरणोपायविशेषस्याप्रयोजकत्वात्। अतएव सन्धिच्छेदादिरुपायभेदो द्विपदादिरपहर्त्तव्यद्रव्यभेदो वा यो यच प्रयोजकस्तेनैव तस्य व्यपदेशः कृतो व्यासादिभिः।।
अतएव सन्धिच्छेत्तरपि भाग्यवैचित्र्येणाल्यानल्पद्रव्यलाभवैचित्येऽपि सन्धिच्छेदस्यैव दण्डप्रयोजकत्वमुक्तं मनुना सन्धिं छित्त्वा तु ये चौर्यमित्यादि। उक्तञ्च मिताक्षराकारेण अपराधगुरुत्वादच दण्डो गुरुरिति । अतएव,प्रनष्टाधिगतं द्रव्यं तिष्ठेत्युक्तरधिष्ठितम् ।
यांस्तत्र चौरान गृहौयात्तावाजा तेन घातयेत् ॥ इति मनुवाक्ये शतादभ्यधिके वध इति दर्शनादत्रापि शतसुवर्णमूल्याधिकद्रव्यहरणे वध इति गोविन्दराजव्याख्यानं दूषयता कुल्लकभट्टेनोक्तं सन्धिं छित्त्वा तु चौर्यमितिवत् अल्येनापि प्रनष्टराजरक्षितद्रव्यहरणेनैव विशेषेणात्र वधविधानं शतादभ्यधिको वध इत्यस्य विशेषोपदिष्टवधेतरविषयत्वादिति ।
तस्मादल्यधनापहारे सन्धिच्छेदादेव दोषविशेषाद्दधदण्ड इति स्थितम्।
For Private And Personal Use Only