________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२२
दण्डविवेकः ।
अत्र सन्धिच्छेत्ता पान्थमुट् द्विपदापहारौ चतुष्यादापहारौ उत्क्षेपको ग्रन्थिभेदकः शस्यहरः प्रकीर्णापहारीत्यष्ट'धैवाप्रकाशतस्करभेद इति प्रतिभाति। आटव्यादीनां पान्थमुट्प्रभेदत्वात् यथायथमितरविशेषार्थप्रवेशादा। ___ अत्र यद्यपि शस्यहरशब्देन वृहस्पत्युक्त-सन्धिच्छिदादन्य प्रच्छन्नहारकत्वमात्र विवक्षितमिति रत्नाकरः। तत्र वृहस्पत्युक्तानां शस्यहरान्तर्भावे तबहिर्भावे वा परिगणनमात्रे भेदात् फलतो न कश्चिविशेषः । मात्रा वा प्रतिवेशिन्या वेति न्यायात् पक्षदयेऽपि दण्डविधेरविशेषात्। ___ तथापि धान्यापहारे मन्वादिभौरत्नाधिकभावं द्विपदादिवत् शृङ्गग्राहिकतया निर्दिश्य दण्डाभिधानातहदेवमुक्तं स्वातन्त्र्येण परिगणनम् ।
येषान्तु नारदाद्युक्तमुत्तमादिभेदमादाय दण्डोत्कर्षापकर्षपरिकल्पनं तेषां प्रकौमत्वमेवोचितमतो नातिविरुद्धस्तदपहारिणो भेदेन विभागः। तेन शस्यहरो धान्यापहारकः।
शल्यं क्षेत्रगतं प्राहुर्धान्यं सतुषमुच्यते ।
आमं वितुषमित्युक्तं पक्वमन्त्रमुदाहृतम् ॥ इति प्रकरणान्तरौयपरिभाषायाः प्रकृतेऽनादरणात् । प्रकोपहारी रत्नाद्यपहारकः, उक्तद्विपदव्यतिरिक्तद्रव्यापहारित्वात् । न दृष्टं यच्च पूर्वेषु सव्वं तत् स्यात् प्रकोर्सकम् ।
इति नारदवचनानुसारात् । १ ग अष्ठावेवाप्रकाशतस्कराः। २ घ पुस्तके प्रकीर्णके इति पाठः ।
For Private And Personal Use Only