________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
स्तयदण्डः ।
१२१ अथाप्रकाशतस्कराणां दण्डः । तत्र तेषां भेदमाह। मनुः,
प्रच्छन्नवञ्चकास्तेषां स्तेनाऽटव्यादयो जनाः। स्तेनाः सन्धिचोरादयः, अटव्या अटव्याश्रिताः। दिवाऽपि चौर्यकारिण इति रत्नाकरः। आदिपदात् प्रान्तरवासि चौरपरिग्रहः। वृहस्पतिः,सन्धिच्छिदः पान्धमुषो विचतुष्पादहारिणः ।
उत्क्षेपकाः शस्यहरा ज्ञेयाः प्रच्छन्नतस्कराः ॥ उत्क्षेपका रक्षकस्याग्रत एवावहितस्य दृष्टिं वञ्चयित्वा उक्षिप्य धनापहारिणः। वस्त्राद्युत्क्षिप्यापहरतीति उत्क्षेपक इति मिताक्षराकारः । व्यासः,
शोधनाङ्गान्विता रात्रौ ये चरन्त्यविभाविताः। अविज्ञातनिवेशाश्च ज्ञेयाः प्रच्छन्नतस्कराः ॥ उतक्षेपकश्च सन्धिज्ञो पान्थमुट् ग्रन्थिभेदकः । स्त्रीपुं-मोषः पशुस्तेयो चौरो नवविधः स्मृतः ॥ शोधनाङ्गान्विताः स्तयकरण-खनित्राद्यन्विताः, अविज्ञातनिवेशा अनवगतप्रवेशाः। एतयोरुत्क्षेपकादिसमशौर्षतयाऽभिधानं स्तेयादर्शनेऽपि आरम्भादिदण्डप्राप्त्यर्थमिति प्रतिभाति । ग्रन्थिभेदको ग्रन्थिभेदनद्वारा वस्त्रादिबडसुवर्णाद्यप्यपहारकः।
१ घ पुस्तके प्रान्तवासौति पाठः । २ ग अनवहितस्य ।
16
For Private And Personal Use Only