________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दण्डविवेकः । मण्याद्युपचारेण श्रोत्रियादौनपि मोहयन्ति उपचारयुक्ता उपायनढौकनयुक्ता इति व्याख्यातं तथा अनार्यान् शूद्रादौन् आर्यलिङ्गिनी ब्राह्मणवेशधारिणो धनग्राहिण इति भट्टेनैवोक्तम् ।
तदेतत् सर्वमपि मतमनुमतमेव सर्वेषामेषां प्रकाश तस्करत्वाविशेषात् । तत्र प्रतिरूपकाणां दण्डः प्रकीर्णके वक्ष्यते। प्रधानभूतानधिकृत्य । मनुः,
राष्ट्रेषु रक्षाधिकृताः परस्वादायिनः शठाः। भृत्या भवन्ति प्रायेण तेभ्यो रक्षेदिमाः प्रजाः ॥ ये कार्यिभ्योऽर्थमेवं हि गृहौयुः पापचेतसः। तेषां सर्वस्वमादाय राजा कुर्यात् प्रवासनम् ॥ कार्य्यिभ्यो व्यवहारिभ्यः । कात्यायनः,प्रतिरूपस्य कर्तारः प्रेक्षणाः प्रकराश्च ये।
राजार्थमोषकाश्चैव प्राप्नुयुविविधं वधम् ॥ प्रेक्षणा राजकार्यवाधेन नृत्यप्रेक्षकाः। प्रकरा दण्डसाध्यकरं प्रकृष्टं गृह्णन्तः। दण्डाख्यं करमिति केचित् ।
मिश्रास्तु दण्डाख्यं राजकरं स्वभावतो निरतिशयं सातिशयोक्त्य गृह्णन्तः प्रकरा इत्याहुः। शेषेषूक्तव व्यवस्था ।
१ घ–मान्याद्यविचारेण । २ ग व्यवहारकेभ्यः ।
For Private And Personal Use Only