________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
स्तेय दण्डः ।
ये नानापण्यैर्व्याजेन परद्रव्यं गृह्णन्ति ते नानापण्योपजौविनः । श्रपधिकास्तुलादिकृतेनोपधिना छलेन गृह्णन्त इति नारायणः । यद्यच सोपाधिक एव इति तत्त्वं तथापि इयमिदं समानाधिकरणमिति तदभिप्रायः ।
मङ्गलादेशवृत्ता एतान् देवान् त्वदर्थे पूजयामीति मिथ्याऽभिधाय जौवन्ति ते हि मङ्गलमादिश्य वञ्चयन्तो वर्त्तन्ते । भद्राः प्रच्छन्नपापा भद्राकारमात्मानमुपदर्शयन्ति । युक्तं चैतत् ।
तथाहि व्यासः,
स्त्रीपुंसौ वञ्चयन्तौह मङ्गलादेशकारिणः । गृह्णन्ति छद्मना चार्थमनार्थ्याचार्य्यलिङ्गिनः ॥
११८
ऐक्षणिकाः कुहकजीविनः । महामात्राः प्रधानभृताः, अर्थलाभेनासम्यक्कारिण इति । अनार्य्या आलिङ्गिनः, ब्रह्मचार्य्यादयो ब्रह्मचर्य्यादिभावनयाऽर्थहरा इति रत्नाकरः ।
मनुटीकायां कुल्लूकभट्टेन महामाचा हस्ति शिक्षा - जीविनः । असम्यक्कारिण इति महामात्र चिकित्सकविशेषणमित्युक्तम् ।
सर्व्वज्ञेनापि महामात्या इति पठित्वा राजोऽमात्यभिपजश्वा सम्यक्कारिणोऽयुक्तकारिण इति वाख्यातम् ।
हलायुधtये पण्यदोषिण इति पठित्वा ये निपुणा
१ व पुस्तकद ये — वृत्तयः ।
For Private And Personal Use Only