________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दण्ड विवेकः।
इति वृहस्पतिनैव विवरणात्। अक्रियाकारिणो भूतकाः। अक्रियाकारिण इति सर्वचैवानुषज्यत इति हलायुधः । तेन सर्वेषामेषां कूटकारित्वं विवक्षितमिति भावः । मध्यस्था मूल्यव्यवस्थापकाः कूटमूल्यव्यवस्थापनेनार्थहराः। कूटसाक्षिणोऽयथावादेन परस्य व्यवहारसाक्षिणः। कुहकजौविन इन्द्रजालादिनार्थहारिणो विवक्षिताः । नारदः,प्रकाशवञ्चकास्तव कूटमानतुलाश्रिताः। औत्कोचिकाः सोपधिकाः कितवाः पण्ययोषितः ॥ प्रतिरूपकराश्चैव मङ्गलादेशकारिणः । सोपधिका भयमाशां वा दर्शयित्वा ये परधनमपहरन्ति। कितवा अत्र छद्मनाऽर्थहराः प्रतिरूपकरा राजानुमति विना राजवेशकर्तारः। मङ्गलादेशकारिणोऽन्यदेशमङ्गलादेशहाराऽर्थहारिणः। । मनुः,प्रकाशवञ्चकास्तेषां नानापण्योपजीविनः ।
औत्कोचिकाचौपधिका वञ्चकाः कितवास्तथा ॥ मङ्गलादेशवृत्ताश्च भद्राश्चैक्षणिकैः सह । असम्यकारिणश्चैव महामावाश्चिकित्सकाः ॥ शिल्पोपकारयुक्ताश्च निपुणाः पण्ययोषितः । एवमाद्यान् विजानीयात् प्रकाशाल्लोक-कण्टकान् ॥ निगूढचारिणश्चान्यानना-नार्यलिङ्गिनः ॥ १ ग घ औत्कोचकाः। २ मूले अधिकः पाठः प्रछन्नवञ्चकौत्वेते ये सेनाटविकादयः ।
For Private And Personal Use Only