________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
स्तेयदण्डः ।
११७
अक्रियाकारिणश्चैव मध्यस्थाः कूटमाक्षिणः । प्रकाशतस्करा ह्येते तथा कुहकजीविनः ॥ नैगमा अत्र बणिजः कपटतुलादिद्दाराऽर्थहारिणः । वैद्या रोगं प्रकोप्यार्थहारिणः, कितवाः कूटदेवनदाराऽर्थहारिणः, सभ्याः पार्षदाः-अर्थलाभेनान्यायवादिनः । 'औत्कोचकाः कार्याधिकृताः सन्त उत्कोचार्थग्राहिणः ।
वञ्चकाः सम्भयोधतानां प्रच्छाद्यैकतरार्थहारिण इति रत्नाकरः। ये सुवर्णादिद्रव्यं गृहीत्वाऽपद्रव्यप्रक्षेपण वञ्चन्ति इति मनुटोका। दैवं भाग्यमुत्पातोऽद्भुतं तद्विदो मिथ्योक्त्याऽर्थहारिण इति रत्नाकरः।
हलायुधस्तु तथैवोत्पातविद इति पठित्वा ये मिथ्येवोत्पातदर्शनेन गृह्णन्तीत्याह। भद्राः शान्तिनियुक्ताः शान्तिमकृत्वैवार्थहरा इति रत्नाकरः। कल्याणाकारतया प्रच्छन्नपापा धनग्राहिण इति मनुटौकायां कुल्लूकभट्टः । स्वरूपतामात्मनो निधाय त्यादिव्यामोहका इति सर्वज्ञः।
शिल्पज्ञाः कूटशिल्येनार्थहराः प्रतिरूपिकाः कूटशिवारकादिद्वाराऽर्थहरा इति रत्नाकरः। मिथ्याश्रमणलिङ्गदण्डादिधारिण इति हलायुधः । उक्तञ्चैतत्,दण्डाजिनादिना युक्तमात्मानं दर्शयन्ति ये। हिंसन्ति छद्मना चार्थं वध्यास्ते राजपूरुषैः ॥
१ औत्कोचिकाः।
२ शिराङ्गादि-।
For Private And Personal Use Only