________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
१९६
दविवेकः ।
कुल्लूकभट्टेन तु वाक्यस्यास्य द्यूतप्रकरणान्तःपातित्वात् कितवप्रसङ्गेणान्येषामभिधानमित्युक्तम् ।
नारायणेन तु निर्व्वासयेत् बहिरेव वासयेदिति व्याख्यातम् ।
अतः कुशीलवान्नटानित्यादिव्याख्यानाच्च प्रकाशतस्करत्वमेषामेव न मन्यत इति गम्यते । अथ येषु प्रकाशतस्करत्वेनोपदिष्टेषु विशिष्य दण्डो नोपदिष्टस्तेषु कथं तन्निर्णयो दोषानुसारादिति प्राञ्चः ।
तथाहि सर्व्वानेतानभिधाय —
नैगमाद्या भूरिधना दण्ड्या दोषानुसारतः । यथा ते नातिवर्त्तन्ते तिष्ठन्ति समये यथा ॥
इति व्यासवचनं निबन्धेषु पठितम् ।
तच प्रतिभाति समभिव्याहृतानामेकत्र यो दण्डः श्रुतः स एवान्यचापि बोद्धव्यः साहचर्य्यात् । तेषु द्वित्राणां यत्र दण्डभेदश्रुतिस्तचापराधस्य गौरवलाघवाभ्यामभ्यासानभ्यासाभ्यां वा दण्ड्यस्य धनवत्त्वाधनवत्त्वादिभिर्व्वा व्यवस्था ।
यच त्वेकचापि दण्डश्रुतिर्नास्ति तत्र तुल्यन्यायतया दोषानुसारेण वा तत्कल्पनमिति । सोऽयंप्रकार एवं - जातीयेऽन्यचापि द्रष्टव्यः ।
के पुनस्ते तत्र बृहस्पतिः, -
――――――――――――――――――――――
नैगमा वैद्यकितवाः सभ्या उत्कोचवञ्चकाः । दैवोत्पातविदो भद्राः शिल्पज्ञाः प्रतिरूपिकाः ॥
१ ग पुस्तके सभ्योत्कोचकवञ्चकाः । घ ङ पुस्तके सभ्यौत्कोचिक
For Private And Personal Use Only
क
1