________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
स्तेयदण्डः ।
११५
अथ मान्त्रिकतान्त्रिकयोर्दण्डमाह । वृहस्पतिः,
मन्त्रौषधिबलात् किञ्चित् संभ्रान्तिं दर्शयन्ति ये । मूलकर्म च कुर्वन्ति निळस्यास्ते महौभुजा ॥ मूलकाऽत्र वशीकरणम् । अथातपस्विनस्तपस्विलिङ्गिनो दण्डमाह । वृहस्पतिः,
दण्डाजिनादिना युक्तमात्मानं दर्शयन्ति ये । हिंसन्ति छद्मना चाथै बध्यास्ते राजपूरुषैः ॥
अथ कुशौलवादिदण्डमाह । मनुः,कितवान् कुशौलवान् केरान् पाषण्डस्थांश्च मानवान् । विकर्मस्थान शौण्डिकांश्च क्षिप्रं निर्बासयेत् पुरात् ॥
कितवा वञ्चका द्यूतकाराः, कुशौलवाः स्वकौशलबलेनानिच्छतोऽपि पुरुषान ये वञ्चयन्ति तेऽवाभिमताः, केराः परस्त्रौपुरुषसङ्केतकारिणः, पाषण्डस्थाः क्षपणकादिपाषण्डाश्रिताः, विकर्मास्था अत्यन्तं विरुद्धकर्मशीलाः, शौण्डिका अत्यन्तमद्यपानप्रसक्ताः। विकर्म क्रियावञ्चनमिति मनुटौकायां कुल्लूकभट्टः।
एवञ्च कुशौलवादीनां वञ्चनादिभिरपहारित्वमपेक्षितम् । पूर्वापरनिबन्धेषु स्तेयप्रकरणे पाठस्वरसात् शौण्डिकादेरपि तादृशस्यैवायं दण्डो न च तत्तज्जातिमात्रस्य अदृष्टार्थत्वापातात् ।
For Private And Personal Use Only