________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११४
दण्डविवेकः।
शस्यापचयः। ततःपरन्तु जोमस्य वाससो हासे न नियमः। 'अत उक्तानुसारेण मध्यस्थैरूहः कार्यः ।
अथौपाधिक दण्डः । तत्र मनुः,
उपधाभिस्तु यः कश्चित् परद्रव्यं हरेन्नरः । ससहायः स हन्तव्यः प्रकाशं विविधैर्वधैः ॥ राजा त्वयि रुष्टः तस्मात्त्वां वक्ष्यामि मयि धनं देहीत्यादि वा कन्याधनादिलाभोपकारं वा अन्तमभिधाय छद्मभिर्यः परद्रव्यं गृह्णाति स छद्मधनग्रहणसहकारिसहितो बहुजनसमक्षं करचरणशिरश्छेदादिभिरनेकैवंधोपायै राज्ञा हन्तव्यः।
यद्यपि निःक्षेपविषयमिदं वचनं तत्प्रकरणान्तःपातात् तथापि न्यायसाम्यात् पूचरित्थं व्याख्यातमतोऽत्रावतारितम् । एवञ्च न निक्षिप्तमित्यादिछलाक्त्या निःक्षेपादिपरद्रव्यं यो हरेत् तस्यायमेव दण्डः। बहुवारापहारविषयमेतदिति नारायणः ।
अथ शिक्षकाभिज्ञकुशलाचार्याणां दण्डः । तत्र धर्मको मत्स्यपुराणम् ।
मूल्यमादाय यो विद्यां शिल्पं वा न प्रयच्छति ।
दण्ड्यः स मूल्यं सकलं धर्मज्ञेन महौक्षिता ॥ सकलं कलासहितं मूल्यं धनिने दापयित्वा तावदेव ग्रहौता दण्ड्य इत्यर्थः ।
१ ग घ ७ इतस्तद्भक्तानुसारेण । २ क ग ७ औषधिकदण्डः ।।
For Private And Personal Use Only