________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दण्डविवेकः।
स सभिकः पालितो राज्ञा रक्षितः पराजितादद्धृत्य जितमर्थ जयिने दद्यात् । क्षमी भूत्वा सत्यञ्च वचो विश्वासार्थ द्यूतकारिणां दद्यादित्यर्थः ।
अथात्र कूटव्यवहारिणो दण्डमाह । वृहस्पतिः,कटाक्षदेविनः क्षुद्रा' राजभागहराश्च ये। गणनावञ्चकाश्चैव दण्ड्यास्ते कितवाः स्मृताः ॥ अचाक्षदेवनेन मेषादिदेवनमपि लक्ष्यते तुल्ययोगक्षेमत्वात् । द्यूतमुक्ता
एष एव विधिदृष्टः प्राणिद्यूतसमाह्वयेः। इति याज्ञवल्क्यदर्शनात्। अतएव सामान्यमाश्रित्य वृहस्पतिनैवोक्तम् । गूढः प्रकाशः कर्त्तव्यो निळस्याः कूटदेविनः ।
इति। विष्णुः,कूटाक्षदेविनां करच्छेदः, उपधिदेविनां सन्दंशच्छेदः ॥ सन्दंशस्तजन्यङ्गुष्ठौ, एतच्चापराधातिशये द्रष्टव्यम् । एवञ्च,
राज्ञा सचिहं निळस्याः कूटाक्षोपधि देविनः । इत्यत्र विष्णुवचने चिहूं करसन्दंशछेदात्मकमेव एकमूलकत्वानुरोधादिति रत्नाकरः।
१ ७ पुस्तके पापाः। २ क ख पुस्तकदये माषादि । ३ ग कूटाक्षोपाधि ।
For Private And Personal Use Only