________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
स्तेयदण्डः ।
तदुपजीविने त्वाह विष्णःकूटसाक्षिणां सर्वस्वापहार उत्कोचजीविनां सभ्यानाञ्च।
यत्र तूत्कोचग्रहणन्नास्ति किन्तु लिप्सादिनाऽन्यथाभिधानं तब साक्षिणो दण्डविशेषः प्रकीर्णकप्रकरणे दर्शितः।
__ अथ द्यूतकारदण्डः। तत्र द्यूतं द्विविधमित्याह । मनुः,. अप्राणिभिर्यत् क्रियते लाके तत् द्यूतमुच्यते ।
प्राणिभिः क्रियमाणस्तु स विज्ञेयः समाह्वयः ॥ पणपूर्विका क्रौड़ा देवनं सा चेदप्राणिभिः क्रियते तदा द्यूतमित्युच्यते । यदि पारावतकुक्कटादिभिर्मनुष्य'मेषादिभिर्वा तदा तेषामपि स्पर्दासम्भवात् समाह्वय इति । तदेतत् राज्ञाऽपि कार्यवशात् प्रवर्तनौयमित्याह । याज्ञवल्क्यः,
द्यूतमेकमुखं कायं तस्करज्ञानकारणात् । एकं मुखं प्रधानं यत्र तत्तथा, तस्क रेति प्रायश्चौ-- जितधना एव कितवा भवन्ति अतश्चौरविज्ञानार्थमेकं मुखं सभिकलक्षणं राजा कुर्यादित्यर्थः। तत्र सभा कितवनिवासार्था यस्यात्यसौ सभिकः। कल्पिताक्षादिनिखिलकौड़ोपकरणस्तदपचितद्रव्योपजीवी सभापतिरुच्यते तस्य कर्त्तव्यमाह।
स सम्यक् पालितो दद्यात् राज्ञे भागं यथावतम् । जितमुद्राहयेज्जै।' दद्यात् सत्यं वचः क्षमौ ॥ १ ग पुस्तके मल्ल-|
२ ख यथाश्रतम् ।
३ ख जेत्र
For Private And Personal Use Only