________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०६
दण्डविवेकः ।
तदाजौविनान्तु दण्डमाह विष्णः,कूटसाक्षिनां सर्वस्वापहारः कार्य उत्कोचजीविनां सभ्यानाञ्च ।
मनुः,
ये नियुक्तास्तु कार्येषु हन्युः कार्याणि कार्य्यिणाम्।
धनोमणा पच्यमाना निस्वांस्तान् कारयेन्नृपः ॥ व्यवहारदर्शनादिकार्येषु नियुक्ता उत्कोचधनतेजसा विकारं भजन्तोऽर्थ्यादौनां कार्याणि ये नाशयन्ति तान् गृहौतसर्वस्वान् कुर्यात् । अत्र हन्युरुत्कोचग्रहणेन जितमप्यजितं कुर्युरिति नारायणः । याज्ञवल्क्यः,उत्कोचजौविनो द्रव्यहीनान् कृत्वा विवासयेत् । द्रव्यहोनान् कृत्वेति सर्वस्वं गृहीत्वेत्यर्थः। अत्रानुबन्धगौरवागौरवाभ्यां व्यवस्था।
अथ कूटमध्यस्थसाक्षिणो दण्डमाह। बृहस्पतिः,मध्यस्था वञ्चयन्त्येकं स्नेहलाभादिना तथा ।
साक्षिणश्चान्यथा ब्रूयुर्दाप्यास्ते दिगुणन्दमम् ॥ दिगुणं यावन्ति वञ्चयन्ति तद्विगुणं मध्यस्थोऽत्र वस्तुमूल्यव्यवस्थापकः कूटमूल्यव्यवस्थापनेनार्थहरो विवक्षितः । सभ्यस्य व्यासेन निर्वासनाभिधानात्। कूटसाक्षिणां सकदुत्कोचग्रहणविषयमिदम् ।
For Private And Personal Use Only