________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
स्तेय दण्डः ।
1
अजातावल्पमूल्यकजातौये बहुमूल्यजातीयताभ्रमहेतुसादृश्यकरणे । तेन योऽल्पमूल्यं द्रव्यं बहुमूल्यद्रव्यभ्रमविषयं कृत्वा मूल्येन विक्रौणौते तस्य तद्विक्रयलभ्यादष्टगुणो' दम इति वाक्यार्थः ।
सादृश्यकरणं यथा कृष्णायां मृदि कस्तूरिकामोदसच्चारेण करिकेति । मार्जारचर्म्मणि वर्णोत्कर्षापादनेन व्याघ्रचर्मेति । स्फटिके लौहित्याचरणेन पद्मराग इति । कार्पासिके स्वत्रे गुणोत्कर्षाधानेन पट्टसूत्रमिति । काष्र्णायसे वर्णोत्कर्षाधानेन रजतमिति । विल्वकाष्ठे चन्दनामोदसञ्चारेण चन्दनमिति । कक्कोले त्वगाख्ये लवङ्गमिति कार्पासिके वाससि गुणाधानेन कौशेयमित्यादि ।
तथा, -
समुद्गपरिवर्त्तं च सारभाण्डञ्च कृत्रिमम् ।
धानं विक्रयं वापि नयतो दण्डकल्पना ॥
१०३
मुहं पिधानं तेन सह वर्त्तते समुहं सम्पुटं करण्डकमित्यनर्थान्तरं कृत्वेति पूर्व्वा शेषः । तेन सुवर्णादिपूर्णसम्पुटपरिवर्त्तं कृत्वा आधानं धारणं नयतः सारभाण्डं कस्तूरिकादिकचिमं कृत्वा विक्रयञ्च नयतो दण्डं कल्पयेदित्यर्थः ।
कल्पनामाह
- स एव, -
भिन्ने पणे तु पञ्चाशत् पणे तु शतमुच्यते । द्विपणे द्दिशतो दण्डो मूल्यडौ च दृद्धिमान् ॥
१ घ ङ पुस्तकदये तक्रियणे स्यादष्टगुणः ।
For Private And Personal Use Only